|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.239. अध्यायः 239
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शुकाय श्रीव्यासोदितप्रलयप्रकाराद्यनुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-239-0x(6229)(75097)
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि।
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः॥ 12-239-1(75098)
दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः।
सर्वमेतत्तदाऽर्चिर्भिः पूर्णं जाज्वल्यते जगत्॥ 12-239-2(75099)
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च।
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च॥ 12-239-3(75100)
ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा।
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत्॥ 12-239-4(75101)
भूमेरपि गुणं गन्धमाप आददते यदा।
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते॥ 12-239-5(75102)
आपस्तत्र प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः।
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च॥ 12-239-6(75103)
अपामपि गुणांस्तात ज्योतिराददते यदा।
आपस्तदा त्वात्तगुणा ज्योतिः षूपरमन्ति वै॥ 12-239-7(75104)
यदाऽऽदित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः।
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नमः॥ 12-239-8(75105)
ज्योतिषोऽपि गुणं रूपं वायुराददते यदा।
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान्॥ 12-239-9(75106)
ततस्तु मूलमासाद्य वायुः संभवमात्मनः।
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश॥ 12-239-10(75107)
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदन्॥ 12-239-11(75108)
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत्।
सर्वलोकप्रणुदितं स्वं तु तिष्ठति नानदत्॥ 12-239-12(75109)
आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः।
`ग्रसते च यदा सोऽपि शाम्यति प्रतिसंचरे।'
मनसो व्यक्तमव्यक्तं ब्राह्मः संप्रतिसंचरः॥ 12-239-13(75110)
तदाऽऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः।
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते॥ 12-239-14(75111)
तं तु कालेन महता संकल्पं कुरुते वशे।
चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम्॥ 12-239-15(75112)
कालो गिरति विज्ञानं कालं बलमिति श्रुतिः।
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे॥ 12-239-16(75113)
[आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि।]
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्।
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत्॥ 12-239-17(75114)
यथावत्कीर्तितं सत्यमेवमेतदसंशयम्।
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः॥ 12-239-18(75115)
एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनःपुनः।
युगसाहस्रयोरादावहोरात्र्यास्तथैव च॥ ॥ 12-239-19(75116)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः॥ 239॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-239-1 क्रमप्राप्तं प्रलयमाह प्रत्याहारमिति। प्रतीपमुत्पत्तिक्रमविपरीतमाहरणं प्रत्याहारः॥ 12-239-2 संकर्षणमुखोद्भूतस्य शिखिनोऽग्नेरर्चिषः सप्तेति संबन्धः। अर्चिर्मिः सौरीभिराग्नेयीभिश्च ज्वालाभिः॥ 12-239-3 ध्रुवाणि स्थावराणि॥ 12-239-4 निर्वृक्षा निस्तृणेति झ. पाठः॥ 12-239-5 गन्धं काठिन्यहेतुम्। धृतवद्भूमिः काठिन्यं त्यक्त्वा जलमात्रं भवतीत्यर्थः। प्रलयत्वाय कारणभावाय॥ 12-239-7 आपोप्यात्तगुणा अग्निना शोषितपसा अग्निमात्रं भवन्ति॥ 12-239-8 यथा रसगुमांस्तासां ग्रसन्ति शिखिनोऽर्चिष इति ट. थ. पाठः॥ 12-239-9 रूपं वायुराददते। आङ्पूर्वस्य दद दाने इत्यस्य रूपम्॥ 12-239-10 ततस्तु स्वनमासाद्येति झ. पाठः। तत्र स्वनं शब्दतन्मात्रमित्यर्थः॥ 12-239-13 ब्राह्मोऽयं प्रतिसंचर इति ध. पाठः॥ 12-239-16 कालो हरति विज्ञानमिति थ. पाठः॥ 12-239-18 बोध्यं बोधयितुं योग्यमन्वर्थनामानं शिष्यम्। विद्यामयं अत्यौत्कण्डेन विद्यार्थित्वात्॥ 12-239-19 विस्तार संक्षेपौ सृष्टिप्रलयावुक्ताविति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|